संस्कृत-शब्दकोशः

मेघयोनि मेघवर्णा

मेघराग

शब्दकल्पद्रुमः

मेघरागः || पुं, (मेघनामको रागः ।)
षड्रागान्त- र्गतरागविशेषः । इति हलायुधः ॥ (यथा, संगीतदर्पणे रागाध्याये । ३१ । “भैरवः कौशिकश्चैव हिन्दोलो दीपकस्तथा । श्रीरागो मेघरागश्च षडेते पुरुषाह्वयाः ॥”)
अस्य विवरणं मेघशब्दे द्रष्टव्यम् ॥



Correction: