वाचस्पत्यम्
मेघवाहन || पु० मेघो वाहनमिव यस्य, मेघान् वाहयति चालयति वह—णिच् ल्यु वा । इन्द्रे अमरः ।
शब्दकल्पद्रुमः
मेघवाहनः || पुं, (मेघो वाहनमस्य ।)
इन्द्रः । इत्य- मरः । १ । १ । ४७ ॥ (यथा, शिशुपालवधे । १३ । १८ । “अविलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥”)