संस्कृत-शब्दकोशः

मेथि मेथिनी

मेथिका

वाचस्पत्यम्

मेथिका ||‍ स्त्री मेथ—ण्वुल् । (मेथि) शाकभेदे राजनि० । णिनि मेथिनी । अत्रैव स्त्री ङीप् । अच् गौरा० ङीष् । मेथी अत्रैवार्थे राजनि० ।


शब्दकल्पद्रुमः

मेथिका || स्त्री (मेथतीति । मेथ् + ण्वुल् । टापि अत इत्वम् ।)
क्षुपविशेषः । मेथिशाक इति भाषा । तत्पर्य्यायः । मेथिनी २ मेथी ३ दीपनी ४ बहुपुत्त्रिका ५ बोधिनी ६ गन्धबीजा ७ ज्योतिः ८ गन्धफला ९ वल्लरी १० चन्द्रिका ११ मन्था १२ मिश्रपुष्पा १३ कैरवी १४ कुञ्चिका १५ बहु- पर्णी १६ पीतबीजा १७ । अस्या गुणाः । कटु- त्वम् । उष्णत्वम् । रक्तपित्तप्रकोपणत्वम् । अरो- चकहरत्वम् । दीप्तिकारित्वम् । वातघ्नत्वम् । दीपनत्वञ्च । इति राजनिर्घण्टः ॥ अथ मेथी वनमेथी । तयोर्नामगुणाः । “मेथिका मेथिनी मेथी दीपनी बहुपत्रिका । बोधिनी गन्धबीजा च ज्योतिर्गन्धफला तथा ॥ वल्लरी चन्द्रिका मन्था मिश्रंपुष्पा च कैरवी । कुञ्चिका बहुपर्णी च पीतबीजा मुनिच्छदा ॥ मेथिका वातशमनी श्लेष्मघ्नी ज्वरनाशिनी । ततः स्वल्पगुणा वन्या वाजिनां सा तु पूजिता ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥



Correction: