संस्कृत-शब्दकोशः

मेदा मेदिनीद्रव

मेदिनी

वाचस्पत्यम्

मेदिनी ||‍ स्त्री मेदः मधुकैटममेदोऽस्त्यस्याः कारणत्वेन इनि । १ वसुन्धरायाम् “मधुकैटभयोरासीन्मेदसैव परिप्लुता । तेनेयं मेदिनो देवी प्रोच्यते” इति पुराणम् । २ मेदायाञ्च ।


शब्दकल्पद्रुमः

मेदिनी || स्त्री (मेदोऽस्या अस्तीति । मेद + इनिः । ङीष् ।)
मेदा । काश्मरी । इति राज- निर्घण्टः ॥ पृथिवी । इत्यमरः । २ । १ । ३ ॥ मेदो विद्यतेऽस्यां मेदिनी सान्तान्मेदःशब्दादिन् सलोपश्च निपात्यते इति परे । स्वमते मेदः समानार्थोऽदन्तो मेदशब्दोऽस्ति । तृष्णाकण्डु- कृमिहरो मलघ्नो मेदकुष्ठहेति शालिहोत्रः । नैकाजादिति इन् । यथा चोक्तम् । “मधुकैटभयोरासीन्मेदसैव परिप्लुता । तेनेयं मेदिनी देवी प्रोच्यते ब्रह्मवादिभिः ॥” मेद्यतीति वा मेदिनी इन्मिद्या स्निहि ग्रहादि- त्वाण्णिन् । इति तट्टीकायां भरतः ॥ (एतन्नाम- निरुक्तिर्यथा, देवीभागवते । १ । ९ । ८३-८४ । “गतप्राणौ तदा जातौ दानवौ मधुकैटभौ । सागरः सकलो व्याप्तस्तदा वै मेदसा तयोः ॥ मेदिनीति ततो जातं नाम पृथ्व्याः समन्ततः । अभक्ष्या मृत्तिका तेन कारणेन मुनीश्वराः ॥” अपि च । तत्रैव । ३ । १३ । ८ । “मधुकैटभयोर्मेदःसंयोगान्मेदिनी स्मृता । धारणाच्च धरा प्रोक्ता पृथ्वी विस्तारयोगतः ॥”)
तस्या उत्पत्तिर्यथा, —
“श्रूयतां वसुधाजन्म सर्व्वमङ्गलकारणम् । विघ्ननिघ्नकरं पापनाशनं पुण्यवर्द्धनम् ॥ अहो केचिद्बदन्तीति मधुकैटभमेदसा । बभूव वसुधाजन्म तद्विरुद्धमतं शृणु ॥ ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा । आवां वध न यत्रोर्व्वी पाथसा संवृतेति च ॥ तयोर्ज्जीवनकालेन प्रत्यक्षा सा भवेत् स्फुटम् । ततो बभूव मेदश्च मरणस्यान्तरं तयोः । मेदिनीति च विख्यातेत्युक्ता यैस्तन्मतं शृणु ॥ जलधौता कृशा पूर्ब्बं वर्द्धिता मेदसा यतः । कथयामि च तज्जन्म सार्थकं सर्व्वसम्मतम् ॥ पुरा श्रुतं यत् श्रुत्युक्तं धर्म्मवक्त्राच्च पुष्करे । महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ॥ मलो बभूव कालेन सर्व्वाङ्गव्यापको ध्रुवम् । स च प्रविष्टः सर्व्वेषां तल्लोम्नां विवरेषु च ॥ कालेन महता तस्माद्बभूव वसुधा मुने ! । प्रत्येकं प्रतिलोम्नाञ्च कूपेषु सा स्थिरा स्थिता ॥ आविर्भूता तिरोभूता सा जले च पुनः पुनः । आविर्भूता सृष्टिकाले तज्जलोपर्य्यवस्थिता । प्रलये च तिरोभूता जलाभ्यन्तरवस्थिता ॥” इति श्रीब्रह्मवैवर्त्ते प्रकृतिखण्डे नारायणनारद- संवादे पृथिव्युपाख्याने ७ अध्यायः ॥



Correction: