संस्कृत-शब्दकोशः

मेदिनीद्रव मेदुरा

मेदुर

वाचस्पत्यम्

मेदुर ||‍ त्रि० मिद—घुरच् । १ अतिशयस्निग्धे । “मेषैर्मेदुरमम्ब- रम्” जयदेवः । २ काकोल्यां स्त्री राजनि० टाप ।


शब्दकल्पद्रुमः

मेदुरः || त्रि (मेद्यति स्निह्यतीति । मिद् + “भञ्ज- भासमिदो घुरच् ।” ३ । २ । १६१ । इति घुरच् ।)
अतिशयस्निग्धः । तत्पर्य्यायः । सान्द्रस्निग्धः २ । इत्यमरः । ३ । १ । ३० ॥ (यथा, गीतगोविन्दे । १ । १ । “मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै- र्नक्तं भीरुरयं त्वमेव तदिमं राधे ! गृहं प्रापय ॥”)



Correction: