वाचस्पत्यम्
मेदोज || न० मेदसो वसातो जायते जन—ड । देहस्थे मज्ज- हेतौ अस्थिनामके धातौ ।
शब्दकल्पद्रुमः
मेदोजं || क्ली (मेदसो जायते इति । जन् + डः ।) अस्थि । इति राजनिर्घण्टः ॥