संस्कृत-शब्दकोशः

मेधाजित् मेधारुद्र

मेधातिथि

शब्दकल्पद्रुमः

मेधातिथिः || पुं, (मेधायाः धारणावद्वुद्धेरतिथि- रिव ।)
मनुसंहिताटीकाकृत् । मुनिविशेषः । यथा, श्रीभागवते । १ । १९ । १० । “मेधातिथिर्देवल आर्ष्टषेणो भरद्वाजो गौतमः पिप्पलादः ॥” (प्रियव्रतपुत्त्रः स च शाकद्बीपाधिपतिः । यथा, श्रीमद्भागवते । ५ । २० । २४ — २५ । “यस्मिन् हि शाको नाम महीरुहः स्वक्षेत्र- व्यपदेशकः । यस्य ह महासुरभिगन्धस्तद्द्वीप- मनुवासयति । तस्यापि प्रैयव्रत एवाधिपति- र्नाम्ना मेधातिथिः ॥” * ॥
सप्तदश द्वापरयुगस्य व्यासः । यथा, देवीभागवते । १ । ३ । ३० । “मेधातिथिः सप्तदशे व्रती ह्यष्टादशे तथा ॥” प्रजापतेः कर्द्दमस्य पुत्त्रः । यथा, मार्कण्डेये । ५३ । १५ । “अग्निध्रो मेधातिथिश्च वपुष्मांश्च तथापरः ॥” दक्षसावर्णिमन्वन्तरे सप्तर्षीणामेकतमः । यथा, मार्कण्डेये । ९४ । ८ । “मेधातिथिर्वसुः सत्यो ज्योतिष्मान् द्युतिमां- स्तथा । सप्तर्षयोऽन्यः सबलस्तथान्वो हव्यवाहनः ॥” नदीविशेषे, स्त्री । यथा, महाभारते । ३ । २२१ । २३ । “चर्म्मण्वती मही चैव मेध्या मेधातिथिस्तथा । ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥”)



Correction: