वाचस्पत्यम्
मेधिर || त्रि० मेधा + अस्त्यर्थे इरच् । मेधावति त्रिका० ।
शब्दकल्पद्रुमः
मेधिरः || त्रि (मेधास्यास्तीति । मेधा + “मेधारथा- भ्यामिरन्निरचौ वक्तव्यौ ।” ५ । २ । १०९ । इति काशिकोक्त्या इरन् ।)
मेधावी । इति त्रिकाण्ड- शेषः ॥ (यथा, ऋग्वेदे । १ । २५ । २० । “त्वं विश्वस्य मेधिर ! दिवश्च ग्मश्च राजसि ।” “हे मेधिर ! मेधाविन् ! वरुण ।” इति तद्भाष्ये सायणः ॥ यज्ञवान् । हविष्मान् । यथा, ऋग्- वेदे । १० । १०० । ६ । “इन्द्रस्य सुनुकृतं दैव्यं सहोग्निर्गृहेजरिता मेधिरः कविः ।” “मेधो यज्ञः हविर्वा तद्बान् ।” इति तद्भाष्ये सायणः ॥)