संस्कृत-शब्दकोशः

मेनकाप्राणेश मेनाजा

मेना

वाचस्पत्यम्

मेना ||‍ स्त्री मि—न । हिमालयपन्त्याम् पितॄणां मानस्यां कन्यायाम् । “मेनां मुनीनामपि माननीयाम्” कुमा० ।


शब्दकल्पद्रुमः

मेना || स्त्री (मान्यते पूज्यते इति । मान पूजायाम् “बहुलमन्यत्रापि ।” उणा० २ । ४६ । इति इनच् प्रत्ययेन निपातनात् साधुः ।)
मेनका । इति भरतद्बिरूपकोषः ॥ सा पितृकन्या । यथा, “तां मानसीं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः । मेनां मुनीनामपि माननीया- मात्मानुरूपां विधिनोपयेमे ॥” इति कुमारसम्भवे । १ । १८ ॥ * ॥
यथा च, कौर्म्मे १२ अध्याये । “अग्निस्वात्ता वर्हिषदो द्विधा तेषां व्यवस्थितिः । तेभ्यः स्वाहा स्वधा जज्ञे मेना वैतरणी तथा ॥” (स्त्री । यथा, ऋग्वेदे । १ । ६२ । ७ । “भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदं- साः ।” “मेनेति स्त्रीनाम । मेने स्त्रीरूपमापन्ने रोदसी ।” इति तद्भाष्ये सायणः ॥ * ॥
वृषणश्वकन्या । यथा, ऋग्वेदे । १ । ५१ । १३ । “मेना भवो वृषणश्वस्य ।” “हे इन्द्र ! त्वं वृषणश्वस्य एतदाख्यस्य राज्ञो मेना भवः मेनानाम कन्यका भूः ।” इति तद्भाष्ये सायणः ॥ * ॥
वाक् । इति निघण्टुः । १ । ११ ॥ “मानपूजायां इत्यस्मात् ‘बहुलमन्यत्रापि इनच् भवति ।’ इति वचनादिनच् । बहुलग्रहणात् नलोपः । पूज्यतेऽनया गुर्व्वादिरुपदेशवाक्येन पूज्या वा देवतात्वात् ।” इति तट्टीकायां देव- राजयज्वा ॥ * ॥
नदीविशेषः । यथा, महा- भारते । ६ । ९ । २३ । “करिषिणीमसिक्नीञ्च कुशचीरां महानदीम् । मरुहीं प्रवरां मेनां हेमां घृतवतीं तथा ॥”)



Correction: