वाचस्पत्यम्
मेप || गतौ भ्वा० आ० सक० सेट् । मेपते अमेपिष्ट । अदित् चङि न ह्रस्वः ।
शब्दकल्पद्रुमः
मेप || ऋ ङ गत्याम् । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक०-सेट् ।) ङ, मेपते । ऋ, अमि- मेपत् । इति दुर्गादासः ॥