वाचस्पत्यम्
मेषी || स्त्री मिष—अच् गौ० ङीष् । १ जटामांस्यां २ तिनिशवृक्षे च राजनि० । जातौ ङीष् । ३ मेषजातिस्त्रियाम् ।
शब्दकल्पद्रुमः
मेषी || स्त्री (मिष्यते गृह्यते असौ इति । मिष + घञ् । ङीष् ।)
तिनिशवृक्षः । जटामांसी । इति राजनिर्घण्टः ॥ मेषस्त्रीजातिः । भेडी । (यथा, वाजसनेयसंहितायाम् । ३ । ५९ । “भेषजमसि भेषजं गवेऽश्वाय पुरुषाय भेषजं सुखं मेषाय मेष्यै ॥”)
तत्पर्य्यायः । जालकिनी २ अविः ३ । इति त्रिकाण्डशेषः ॥ एडका ४ मेषिका ५ इति शब्दरत्नावली । क्रुररी ६ रुजा ७ अविला ८ वेणी ९ । इति हेमचन्द्रः । ४ । ३४३ । अस्या दुग्धगुणाः । मधुरत्वम् । गाढत्वम् । स्निग्ध- त्वम् । कफापहत्वम् । वातामयकरत्वम् । स्थौल्य- त्वम् । लोमशायाश्चेत् गुरुत्वम् । वृद्धिदत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “आविकं लवणं स्वादु स्निग्धोष्णं चाश्मरी- प्रणुत् । अहृद्यं तर्पणं केश्यं शुक्रपित्तकफप्रदम् । गुरुकासेऽनिलोद्भूते केवले वानिले वरम् ॥” इति भावप्रकाशः ॥ अस्या दधिगुणाः । सुस्निग्धत्वम् । कफपित्त- करत्वम् । गुरुत्वम् । वाते रक्तवाते च पथ्य- त्वम् । शोफव्रणनाशित्वञ्च ॥ * ॥
अस्या नव- नीतगुणाः । क्लिष्टगन्धत्वम् । शीतलत्वम् । मेधा- हरत्वम् । पुष्टिदत्वम् । स्थौल्यत्वम् । मन्दाग्नि- दीपनत्वम् । सारकत्वम् । पाके हिमत्वम् । लघुत्वम् । योनिशूले कफे वाते दुर्नाम्नि च हितत्वञ्च । दुर्नाम्नि स्थाने गुदशूले इति पुस्तकान्तरे पाठः ॥ * ॥
तस्या घृतगुणाः । अतीवगौरवात् सुकुमारदेहिनां वर्ज्ज्यत्वम् । बुद्धिपाटवहरत्वम् । बलावहत्वम् । वपुषां विस्र- गन्धिकारित्वञ्च । इति राजनिर्घण्टः ॥ तन्- मांसगुणाः । यथा, भावप्रकाशे । “छागमेषवृषाश्वाद्याः ग्राम्याः प्रोक्ता मह- र्षिभिः । ग्राम्या वातहराः सर्व्वे दीपनाः कफपित्तलाः । मधुरा रसपाकाभ्यां वृंहणा बलवर्द्धनाः ॥”