वाचस्पत्यम्
मेह || पु मिह—घञ् । १ प्रस्रावे हेमच० २ प्रमेहरोगभेदे च अमरः । प्रमेहशब्दे दृश्यम् । अच् । ३ मेघे शब्दच० ।
शब्दकल्पद्रुमः
मेहः || पुं, (मेहति क्षरति शुक्रादिरनेनेति । मिह् + घञ् ।)
प्रमेहरोगः । इत्यमरः । २ । ६ । ५६ ॥ (अस्यौषधं यथा, —
“वङ्गभस्य द्बिवल्लञ्च लेहयेन्मधुना सह । ततो गुडसमं गन्धं भक्षयेत् कर्षमात्रकम् ॥ गुडूचीसत्त्वमथवा शर्करासहितन्तथा । सर्व्वमेहहरो ज्ञेयो वङ्गावलेह उत्तमः ॥” इति वङ्गावलेहः ॥ “भस्मसूतं समं कान्तमभ्रकन्तु शिलाजतु । शुद्धताप्यं शिलाव्योषं त्रिफलाङ्कोठजीरकम् ॥ कार्पासमज्जारजनी समं भाव्यञ्च भृङ्गिणा । विंशद्वारं विशोष्याथ मधुयुक्तं लिहेत्सदा ॥ माषमात्रं हरेन्मेहं मेघनादरसो महान् ॥” इति मेघनादरसः ॥ “रसभस्म समायुक्तं वङ्गभस्म प्रकल्पयेत् । अस्य माषद्बयं हन्ति मेहान् क्षौद्रसमन्वितम् ॥” इति वङ्गेश्वररसः ॥ इति वैद्यकरसेन्द्रसारसंग्रहे प्रमेहाधिकारे ॥ अन्यत् प्रमेहशब्दे द्रष्टव्यम् ॥ * ॥
मिहतीति । मिह + अच् ।)
मेषः । इति शब्दचन्द्रिका ॥ प्रस्रावः । इति हेमचन्द्रः । ३ । २९७ ॥ (अग्न्या- द्यभिमुखं तत्करणे दोषो यथा, मनौ । ४ । ५२ । “प्रत्यग्निं प्रतिसूर्य्यञ्च प्रतिसोमोदकद्विजान् । प्रतिगां प्रतिवातञ्च प्रज्ञा नश्यति मेहतः ॥” “अग्निसूर्य्यचन्द्रजलब्राह्मणगोवाताभिमुखं मूत्र- पुरीषे कुर्व्वतः प्रज्ञा नश्यति ।” इति तट्टीकायां कुल्लूकभट्टः ॥)