वाचस्पत्यम्
मेहघ्नी || स्त्री मेहं हन्ति हन—टक् ङीप् । हरिद्रायाम् रत्नमा० आर्द्रतन्मूलरससेवनाद्धि मेहनाश इति वैद्यकप्रसिद्धिः ।
शब्दकल्पद्रुमः
मेहघ्नी || स्त्री (मेहं हन्तीति । हन् + टक् । ङीष् ।) हरिद्रा । इति रत्नमाला ॥