संस्कृत-शब्दकोशः

मेहघ्नी मेहना

मेहन

वाचस्पत्यम्

मेहन ||‍ न० मिह्यतेऽनेन मिह—करणे ल्युट् । १ शिश्ने अमरः । कर्मणि ल्युट् । २ मूत्रे मेदि० । भावे ल्युट् । ३ मूत्रोत्सर्गे ।


शब्दकल्पद्रुमः

मेहनं || क्ली (मेहति सिञ्चति मूत्ररेतसीति । मिह् सेचने + ल्युः ।)
शिश्नः । इत्यमरः । २ । ६ । ७६ ॥ (यथा, ऋग्वेदे । १० । १६३ । ५ । “मेहनाद्वनं कारणाल्लीम ।” “मेहनात् मेढ्रात् ।” इति तद्भाष्ये सायणः ॥ यथा, च सुश्रुते । १ । ३५ । “ह्रस्वानि यस्य पर्व्वाणि सुमहच्चापि मेहनम् । तथोरस्यवलीढानि न च स्यात् पृष्ठमायतम् ॥ ऊर्द्ध्वञ्च श्रवणौ स्थानान्नासा चोच्चा शरीरिणः । हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते । प्रेक्षते यश्च विभ्रान्तं स जीवेत् पञ्चविंशतिम् ॥”)
मूत्रम् । इति मेदिनी । ने, ११० ॥ (यथा, सुश्रुते । १ । ३२ । “वस्तवद्विलपन् यश्च भूमौ पतति स्रस्तमुष्क- स्तब्धमेढ्रो भग्नग्रीवः प्रणष्टमेहनश्च मनुष्यः ॥”)
भावेऽनट् प्रत्यये मूत्रोत्सर्गश्च ॥


शब्दकल्पद्रुमः

मेहनः || पुं, (मेहति सिञ्चति रसमिति । मिह + ल्युः ।)
मुष्ककवृक्षः । इति राजनिर्घण्टः ॥



Correction: