शब्दकल्पद्रुमः
मैत्री || स्त्री (मैत्र + ङीप् । यद्वा, मित्र + भावे ष्यञ् + ङीष् । ततः “हलस्तद्धितस्य ।” ६ । ४ । १५० ।” इति यलोपः ।)
मित्रस्य भावः । मित्रस्य कर्म्म । इत्यमरभरतौ ॥ व्यक्तिविशेषै- र्मैत्रीकरणनिषेधो यथा, —
“विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः । बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह ॥ तथातिव्ययशीलैश्च परीवादरतैः शठैः । बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् ॥” इति विष्णुपुराणे तृतीयेऽंशे ११ अध्यायः ॥ “विद्बिष्टादिभिर्मैत्रीं न कुर्व्वीत । बहुभिर्व्वैरं यस्य । अतिकीटकः अत्यन्तं कीटवत् पीडकः । कण्टकैरिति पाठेऽपि स एवार्थः । बन्धकी असती ।” इति तट्टीका ॥