वाचस्पत्यम्
मैथिली || स्त्री मिथिलायां भवां अण् ङीप् । १ सीतायाम् । मिथिलाया राजा अण् । २ मिथिलादेशाधिपे पु० ।
शब्दकल्पद्रुमः
मैथिली || स्त्री (मिथिला निवासोऽस्येति । मिथिला + “सोऽस्य निवासः ।” ४ । ३ । ८९ । इति अण् । मैथिलस्तन्नामा राजा तस्यापत्यं स्त्री । मैथिल + इञ् । ङीष् ।)
सीता । इति हेम- चन्द्रः ॥ (यथा, भट्टिकाव्ये । २ । ४७ । “हिरण्मयी शाललतेव जङ्गमा च्युतादिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥” मिथिलापतिमात्रे, पुं । यथा, महाभारते । १२ । ९९ । ३ । “जनको मैथिलो राजा महात्मा सर्व्वतत्त्ववित् । योधान् स्वान् दर्शयामास स्वर्गं नरकमेव च ॥”)