शब्दकल्पद्रुमः
मैत्र्यं || क्ली स्त्री, (मित्र + ष्यञ् ।)
मित्रस्य भावः । मित्रस्य कर्म्म । इत्यमरभरतौ । ३ । ५ । ३९ ॥ (यथा, पञ्चतन्त्रे । ४ । ७० । “प्राहुः साप्तपदं मैत्र्यं जनाः शास्त्रविचक्षणाः । मित्रताञ्च पुरस्कृत्य किञ्चिद्बक्ष्यामि तच्छृणु ॥”)