वाचस्पत्यम्
मैथुन || न० मिथुनेन स्त्रीपुंसाभ्यां निर्वृत्तम् अण् । १ अग्न्या- धानादौ, कर्मणि “सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने” इति स्मृतिः । अग्न्याधाने हि सपत्नीकस्यैवाधि- कार इति तस्य तत्साध्यत्वम् । २ स्त्रीपुंससङ्गमरूपे ग्राम्यधर्मे च अमरः ।
शब्दकल्पद्रुमः
मैथुनं || क्ली (मिथुने सम्भवतीति । मिथुन + “संभूते ।” ४ । ३ । ४१ । इति अण् । मिथुनस्येद- मित्यण् वा ।)
अग्न्याधानम् । यथा, मनुशाता- तपौ । “असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्बिजातीनां दारकर्म्मणि मैथुने ॥ मैथुने मिथुनशब्दवाच्ये स्त्रीपुंससाध्ये अग्न्याधान- पुत्त्रोत्पत्त्यादौ ।” इत्यद्वाहतत्त्वम् ॥ * ॥
सङ्गतम् । रतम् । इत्यमरः । ३ । ३ । १२१ ॥ “सङ्गतिः सङ्गमो दारसंयोगः विवाह इति कलिङ्गः ॥ रतं सुर- तम् । अनयोर्मैथुनम् । मिथुनात् सङ्गमे इदमर्थे स्वार्थे रतौ निष्पाद्यार्थे वा ष्णः । सम्बन्धे सुरते युम्मे राशौ मिथुनमिष्यते । इति व्याडिः ।” इति तट्टीकायां भरतः ॥ * ॥
शेषस्य पर्य्यायः । सुरतम् २ अभिमानितम् ३ धर्षितम् ४ संप्रयोगः ५ अनारतम् ६ अब्रह्मचर्य्यकम् ७ उपसृष्टम् ८ त्रिभद्रम् ९ क्रीडारत्नम् १० महासुखम् ११ । इति त्रिकाण्डशेषः ॥ व्यवायः १२ ग्राम्य- धर्म्मः १३ रतम् १४ निधुवनम् १५ । इत्यमरः । २ । ७ । ५७ ॥ अस्य गुणाः । धातुक्षयकारि- त्वम् । रतिसन्तानदातृत्वञ्च । अतिशयमैथुनस्य श्वासकासज्वरकारित्वम् । अमैथुनस्य प्रमेहमेद ग्रन्थिरोगाग्निमान्द्यकारित्वम् । स्त्रीसंसर्गरहि- तस्य आयुरजराशरीरबलवर्णस्थिरोपचित- मांसानि भवन्ति । पूज्यस्थानाशुचिस्थान- सेकस्थानलोकसमीपप्रातःकालसन्ध्याकालपर्व्व- कालेषु तस्य त्याज्यत्वम् । एतत्कर्म्मणि रज- स्वलाकामा मलिना बन्ध्या वर्णज्येष्ठा वयोज्येष्ठा व्याधियुक्ताङ्गहीनासती वेश्या योनिदोषयुक्ता सगोत्रा गुरुपत्नी भिक्षुकी कपटव्रतधारिणी वृद्धा च त्याज्या ॥ रजस्वलागमने दृष्ट्यायुस्तेजः- क्षयोऽधर्म्मश्च भवति । कपटव्रतयुक्तागुरुपत्नी सगोत्रावृद्धागमने एवं पर्व्वकाले सन्ध्याकाले च स्त्रीमैथुने पापमायुःक्षयश्च भवति । वयोरूप- गुणोपेतां कुलशीलसमन्विताम् । अधिकामां हृष्टामलङ्कृतां वाजीकरणपीडिताञ्च प्रमदां हृष्टोऽधिकामश्च पुरुषः सेवेत । शुक्रवर्द्धकद्रव्यं सशर्करं शीतलजलं वा पीत्वा कामबाणचञ्चलां सुरूपामनिन्द्यां हृष्टां प्रमदामाद्यप्रहरे हृष्टः कामुको गत्वा तदनु सुखं स्वपेत् । असकृद्- गमने तु नरो धातुवैषम्यमेति । रतान्ते स्नानं सशर्करक्षीरपानं निद्रा गौडिकरसभोजनञ्च हितम् । इति राजवल्लभः ॥ * ॥
(“तत्र प्रथमे दिवसे ऋतुमत्यां मैथुनगमनमनायुष्यं पुंसां भवति । यश्च तत्राधीयते गर्भः स प्रसवमानो विमुच्यते । द्वितीयेऽप्येवं सूतिकागृहे वा । तृतीयेऽप्येवमसम्पूर्णाङ्गोऽल्पायुर्वा भवति । न च प्रवर्त्तमाने रक्ते बीजं प्रविष्टं गुणकरं भवति यथा नद्यां प्रतिस्रोतः प्लाविद्रव्यं प्रक्षिप्तं प्रति- निवर्त्तते नोर्द्ध्वं गच्छति तद्बदेव द्रष्टव्यम् । तस्मा न्नियमवतीं त्रिरात्रं परिहरेत् । अतःपरं मासा- दुपेयात् ।” “ऋतुस्नाता तु या नारी स्वप्ने मैथुनमावहेत् । आर्त्तवं वायुरादाय कुक्षौ गर्भं करोति हि ॥ मासि मासि विवर्द्धेत गर्भिण्या गर्भलक्षणम् । कललं जायते तस्या वर्ज्जितं पैतृकैर्गुणैः ॥” इति सुश्रुते शारीरस्थाने द्वितीयेऽध्याये ॥)
व्रतदिवसे अष्टाङ्गमैथुनस्य त्याज्यत्वं यथा, —
“स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च । मैथुनं विविधं त्याज्यं व्रते क्रीडाविवृद्धये ॥” इति ब्रह्मवैवर्त्ते गणपतिखण्डे ४ अध्यायः ॥ अस्य विधिनिषेधौ यथा, —
“ऋतायुपगमः शस्तः स्वपत्न्यामवनोपते ! । पुन्नामर्क्षे शुभे काले ज्येष्ठयुग्मासु रात्रिषु ॥ नास्नातां तु स्त्रियं गच्छेन्नातुरां न रजस्वलाम् । नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्व्विणीम् ॥ नादक्षिणां नान्यकामां नाकामां नान्ययोषितम् । क्षुत्क्षामामतिभुक्तां वा स्वयं वैभिर्गुणैर्युतः ॥ स्नातः स्रग्गन्धधृक् प्रीतो नाध्मातः क्षुधितो- ऽपि वा । सकामः सानुरागश्च व्यवायं पुरुयो व्रजेत् ॥ चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा । पर्व्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ तैलस्त्रीमांससंभोगी पर्व्वस्वेतेषु वै पुमान् । विण्मूत्रभोजनं नाम प्रयाति नरकं मृतः ॥ अशेषपर्व्वस्वेतेषु तस्मात् संयमिभिर्ब्बुधैः । भाव्यं सच्छास्त्रदेवेज्याध्यानजप्यपरैर्नरैः ॥ नान्ययोनावयोनौ वा नोपभुक्तौषधस्तथा । देवद्बिजगुरूणाञ्च व्यवायी नाश्रयी भवेत् ॥ चैत्यचत्वरतीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ! ॥ प्रोक्तपर्व्वस्वशेषेषु नैव भूपाल ! सन्ध्ययोः । गच्छेद्व्यवायं मतिमान्न मूत्रोच्चारपीडितः ॥ पर्व्वस्वभिगमोऽधन्यो दिवा पापप्रदो नृप ! । भुवि रोगावहो नॄणामप्रशस्तो जलाशये ॥ परदारान्न गच्छेत मनसापि कदाचन । किमु वाचास्थिबन्धोऽपि नास्ति तेषु व्यवा- यिनाम् ॥ मृतो नरकमभ्येति हीयतेऽत्रापि चायुषः । परदारगतिः पुंसामुभयत्रापि भीतिदा ॥ इति मत्वा स्वदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोक्तदोषहीनेषु सकामेष्वनृतावपि ॥” इति विष्णुपुराणे । ३ । ११ । १११-१२४ ॥ * ॥
परस्त्र्यादिगमने दण्डो यथा, —
“ब्राह्मणः क्षत्त्रियो वैश्यः क्षत्त्रविट्शूद्रयोषितः । व्रजन्दाप्यो भवेद्राज्ञा दण्ड उत्तमसाहसम् ॥ वैश्यागमे च विप्रस्य क्षत्त्रियस्यान्त्यजागमे । मध्यमं प्रथमं वैश्यो दण्ड्यः शूद्रागमाद्भवेत् ॥ शूद्रः सवर्णागमने शतं दण्ड्यो महीभुजा । वैश्यश्च द्बिगुणं राजन् ! क्षत्त्रियस्त्रिगुणं तथा ॥ ब्राह्मणश्च भवेद्दण्ड्यस्तथा राजंश्चतुर्गुणम् । अगुप्तासु भवेद्दण्डः स्वगुप्तास्वधिको भवेत् ॥ माता मातृष्वसा श्वश्रूर्मातुलानी पितृष्वसा । पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी तथा ॥ भागिनेयी तथा चैव राजपत्नी तथैव च । तथा प्रव्रजिता नारी वर्णोत्कृष्टा तथैव च ॥ इत्यगम्यास्तु निर्द्दिष्टास्तासान्तु गमने नरः । शिश्नस्योत्कर्त्तनं कृत्वा ततस्तु वधमर्हति ॥ भ्रातृभार्य्यागमे पूर्ब्बाद्दण्डस्तु द्बिगुणो भवेत् । चाण्डालीञ्च श्वपाकीं वा गच्छन् वधमवाप्नुयात् । तिर्य्यग्योनौ च गोवर्ज्यं मैथुनं योऽभिसेवते । स पणं प्राप्तुयाद्दण्डं तस्याश्च यवसोदकम् ॥ सुवर्णञ्च भवेद्दण्ड्यो गां व्रजन् मनुजोत्तम ! । वैश्यागामी द्बिजो दण्ड्यो वैश्यशुल्कसमं पणम् ॥ गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । वेतनं द्बिगुणं दद्याद्दण्डञ्च द्विगुणन्तथा ॥ अन्यमुद्दिश्य यो दद्यात् नयेदन्यस्य कारणात् । तस्य दण्डं भवेद्राजन् ! सुवर्णस्य च माषकम् ॥ नीत्वा भोगान्न यो दद्याद्दाप्यो द्विगुणवेतनम् । राज्ञश्च द्बिगुणं दण्डन्तथा धर्म्मो न हीयते ॥ बहूनां व्रजतामेकां सर्व्वे ते द्विगुणं दमम् । दद्युः पृथक् पृथक् सर्व्वे दण्डञ्च द्बिगुणं परम् ॥” इति मात्स्ये २०१ अध्यायः ॥