शब्दकल्पद्रुमः
मैन्दः || पुं, विष्णुवध्यासुरविशेषः । इति हेमचन्द्रः । २ । १३४ ॥ (यथा, हरिवंशे । ४१ । १५८ — १६० । “अपरः केशवस्यायं प्रादुर्भावो महात्मनः । विख्यातो माथुरे कल्पे सर्व्वलोकहिताय वै ॥ यत्र शाम्बञ्च मैन्दञ्च द्विविदं कंसमेव च । दैत्यान् मानुषदेहस्थान् सूदयामास वीर्य्य- वान् ॥” वानरविशेषः । इति रामायणम् ॥ (यथा, महाभारते । २ । ३१ । १८ । “तत्र वानरराजाभ्यां मैन्दैन द्बिविदेन च । युयुधे दिवसान् सप्त न च तौ विकृतिं गतौ ॥”)