संस्कृत-शब्दकोशः

मैन्दहन् मैलन्द

मैरेय

वाचस्पत्यम्

मैरेय ||‍ न० मिरायां देशभेदे ओषधिमेदे वा भवं ढक् । मिरा देशजाते १ आसवे “मैयेयं धातकीपुष्पगुडधानाम्लसम्भवम्” माधवोक्ते २ मद्यभेदे च न० ।


शब्दकल्पद्रुमः

मैरेयं || क्ली (मारं कामं जनयतीति । मार + ढक् । निपातनात् साधुः ।)
मद्यविशेषः । इत्य- मरः । २ । १० । ४२ ॥ “यद्यपि । ‘सीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानाम्लसंहितम् ॥’ इति माधवेन भेदः कृतः । तथापि सूक्ष्ममनादृ- त्येदमुक्तम् । मारं कामं जनयति मैरेयं ष्णेयः । निपातनादात् ऐत्वम् ।” इति भरतः ॥ (यथा, “मद्यन्तु सीधुर्मैरयमिरा च मदिरा सुरा । कादम्बरी वारुणी च हालापि बलवल्लभा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ क्वचित्, पुंलिङ्गेऽपि दृश्यते । यथा, —
“तीक्ष्णः कषायो मदकृत् दुर्नामकफगुल्महृत् । कृमिमेदोऽनिलहरो मैरयो मधुरो गुरुः ॥” इति सुश्रुते सूत्रस्थाने ४५ अध्याये ॥)



Correction: