शब्दकल्पद्रुमः
मोक्षकः || पुं, (मोक्षतीति । मोक्ष + ण्वुल् ।)
मुष्ककवृक्षः । इति राजनिर्घण्टः ॥ (यथा, बृहत्संहितायाम् । ५४ । ११३ । “तोयं शृतं मोक्षकभस्मना वा यत्सप्तकृत्वः परिषेचनं तत् ॥” त्रि, मोचनकर्त्ता । यथा, मनुसंहितायाम् । ४ । ३४२ । “असन्धितानां सन्धाता सन्धितानाञ्च मोक्षकः ॥”)