वाचस्पत्यम्
मोचरस || पु० ६ त० । शाल्मलिनिर्यापे स्वनामख्याते पदार्थे राजनि० ।
शब्दकल्पद्रुमः
मोचरसः || पुं, (मोचस्य रसः ।)
शाल्मलिनिर्यासः । तत्पर्य्यायः । मोचस्रुत् २ मोचस्रावः ३ मोच- निर्यासः ४ पिच्छिलसारः ५ सुरसः ६ शाल्मली- वेष्टः ७ मोचसारः ८ । अस्य गुणाः । कषायत्वम् । कफवातहरत्वम् । रसायनत्वम् । बलपुष्टिवर्णवीर्य्यप्रज्ञायुर्देहसिद्धिदत्वम् । ग्राहि- त्वञ्च । इति राजनिर्घण्टः ॥ (यथा, मुश्रुते । उत्तरतन्त्रे । ४० अध्याये । “तिलामोचरसो लोध्रं तथैव मधुकोत्पलम् । कच्छरातिलकल्कश्च योगाश्चत्वार एव तु ॥ आजेन पयसा पेयाः सरक्ते मधुसंयुताः ॥”)