संस्कृत-शब्दकोशः

मोचरस मोचाट

मोचा

शब्दकल्पद्रुमः

मोचा || स्त्री (मुञ्चति त्वचमिति । मुच् + अच् । टाप् ।)
शाल्मलिवृक्षः । (यथा, —
“शाल्मलिस्तु भवेन्मोचा पिच्छिला पूरणीति च । रक्तपुष्पा स्थिरायुश्च कण्टकाढ्या च तूलिनी ॥” इति मावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥)
कदलीवृक्षः । इत्यमरः । २ । ४ । १३३ ॥ (यथास्याः पर्य्यायः । “कदली वारणा मोचाम्बुसारांशुमतीफला ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
नीलीवृक्षः । इति राजनिर्घण्टः ॥



Correction: