शब्दकल्पद्रुमः
मोटनं || क्ली (मुट् + ल्युट् ।) चूर्णीकरणम् । आक्षेपः । इति मुटधात्वर्थदर्शनात् ॥
मोटनः || पुं, (मोटतीति । मुट् + ल्युः ।) वायुः । इति राजनिर्घण्टः ॥