संस्कृत-शब्दकोशः

मोटन मोटा

मोटनक

शब्दकल्पद्रुमः

मोटनकं || क्ली (मोटनेन कायतीति । कै + कः ।)
एकादशाक्षरच्छन्दोविशेषः । यथा, —
“स्यान्मोटनकं तजजाश्च लगौ ॥” “रङ्गे खलु मल्लकलाकुशल- श्चाणूरमहाभटमोटनकम् । यः केलिलवेन चकार स मे संसाररिपुं प्रति मोटयतु ॥” इति छन्दोमञ्जरी ॥



Correction: