वाचस्पत्यम्
मोट्टायित || न० “कान्तस्मरणवार्त्तादौ हृदि तद्भावभावतः । प्राकट्यमभिलाषस्य मोट्टायितमुदीर्य्यते” उज्ज्वमण्युक्ते स्त्रीणामभिलाषभेदे ।
शब्दकल्पद्रुमः
मोट्टायितं || क्ली (मुट् + भावे घञ् । बाहुलकात् घञस्तुट् । ततो भृशादित्वात् क्यङ् । ततो भावे क्तः ।)
स्त्रीणां स्वाभाविकदशविधालङ्कारान्त- र्गतालङ्कारविशेषः । इति हेमचन्द्रः ॥ तल्लक्षणं यथा, उज्ज्वलनीलमणिः ॥ “कान्तस्मरणवार्त्तादौ हृदि तद्भावभावतः । प्राकट्यमभिलाषस्य मोट्टायितमुदीर्य्यते ॥”