वाचस्पत्यम्
मोदयन्ती || स्त्री मुद—णिच्—शतृ ङीप् । वनमल्लिकायाम् (काठमल्लिका) शब्दर० ।
शब्दकल्पद्रुमः
मोदयन्ती || स्त्री (मोदयतीति । मुद + णिच् + शतृ । ङीप् ।)
वनमल्लिका । काठमल्लिका इति भाषा ॥ यथा, —
“मदयन्ती गन्धवती मोदयन्ती खरस्वरा ।” इति रत्नमाला ॥ अपि च । “तृणशून्या मोदयन्ती भूपदी मद्यन्तिका ॥” इति शब्दरत्नावली ॥ (यथा च सुश्रुते । २ । २५ । “पिष्ट्वाथ सर्व्वं सह मोदयन्त्या माराम्भसा बीजकसम्भवेन ॥”)