शब्दकल्पद्रुमः
मोरटा || स्त्री (मोरट + टाप् ।)
मूर्व्वा । इत्य- मरः । २ । ४ । ८३ ॥ (यथा, सुश्रुते । १ । ३८ अः । “वीरतरुसहचरद्बयदर्भवृक्षादनी गुन्द्रानल- कुशकाशाश्यभेदकाग्निमन्थमोरटावसुकवसिर- मल्लूक कुरुण्टकेन्दीवरकपोतवङ्काः ॥” तथास्याः पर्य्यायो यथा, —
“मूर्ब्बा मधुरसा देवी मोरटा तेजनी स्रुवा । मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)