वाचस्पत्यम्
मोहन || पु० मोहयति मुह—णिच्—ल्यु । १ धुस्तूरे राजनि० कन्दर्पस्य २ शरभेदे च त्रिका० । ३ मोहकारके त्रि० स्त्रियां टाप् । सा च ४ त्रिपुरमालीपुष्पे रत्नमा० । ५ मरु- न्मायां शब्दमा० । ६ उपोदक्यां स्त्री राजनि० । ७ वटपत्र्यां भावप्र० उभयत्र गौरा० ङीष् ।
शब्दकल्पद्रुमः
मोहनं || क्ली (मुह्यतेऽनेनेति । मुह् + ल्युट् ।)
सुरतम् । इति हेमचन्द्रः । ३ । २०० ॥ यथा, मार्कण्डेये । ५१ । ७७ । “प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा । जायन्ते मोहनात्तस्याः सर्व्वमण्डूककच्छपाः ॥”)
होममन्त्रौषध्यादिद्बारामुग्धताकरणम् । तत्र होमेऽङ्गुलिनियमो यथा, —
“मोहनं वश्यकामश्च प्रीतिसंवर्द्धनं तथा । प्रदेशिनीकनिष्ठाभ्यां सर्व्वमेतत् प्रसिध्यति ॥ मोहनाकर्षणञ्चैव क्षोभणोच्चाटनं तथा । कनिष्ठामध्यमाङ्गुष्ठसंयोगेन तु लीलया ॥ विधियुक्तेन होमेन तथा द्रव्यानुयोगतः । सर्व्वे मन्त्राः प्रसिध्यन्ति मुद्रामन्त्रप्रयोगतः ॥” इति तन्त्रसारः ॥ (नगरभेदः । यथा, महाभारते । २ । २५३ । ९ । “मोहनं पत्तनञ्चैव त्रिपुरां कोशलां तथा । एतान् सर्व्वान् विनिर्जित्य करमादाय सर्व्वशः ॥”)
शब्दकल्पद्रुमः
मोहनः || पुं, (मोहयतीति । मुह + निच् + ल्युः ।)
धुस्तूरवृक्षः । इति राजनिर्घण्टः ॥ कामदेवस्य पञ्चबाणान्तर्गतबाणविशेषः । इति त्रिकाण्ड- शेषः ॥ (यथा, कथासरित्सागरे । ७१ । १३२ । “कामस्यैव जगज्जैत्रमोहनास्त्राधिदैवतम् । तद्रूपहृतचित्ताभूत् समाधिस्थेव तत्क्षणम् ॥” नृपविशेषः । यथा, कथासरित्सागरे । ४७ । ६१ । “वीक्ष्य प्रलम्बं निहतं मोहनो नाम भूपतिः । सन्निपत्याट्टहासं तं ताडयामास सायकैः ॥” मोहकारके, त्रि ॥ यथा, गीतायाम् । १८ । ३९ । “यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् ॥” “अत्र मोहनं मोहकरम् ।” इति आनन्द- गिरिः ॥)