शब्दकल्पद्रुमः
मोहनी || स्त्री (मुह्यत्यनयेति । मुह् + ल्युट् । स्त्रियां ङीष् ।)
उपोदकी । इति राज- निर्घण्टः ॥ वटपत्री । इति भावप्रकाशः ॥ (तथास्याः पर्य्यायः । “मोहनी मल्लिकाख्या तु वटपत्रा च मोहना ।” इति वैद्यकरत्नमालायाम् ॥)
माया । यथा, महाभारते । १४ । ८० । ४५ । “मया तु मोहनी नाम मायैषा संप्रदर्शिता ॥”)