शब्दकल्पद्रुमः
मौखं || क्ली (मुखस्येदमिति । मुख + अण् ।)
मुखसम्बन्धाधीनपापम् । तत्तु अभक्ष्यभक्षणरूपं तत्र क्लीवम् । संसर्गरूपस्य तस्य प्रायश्चित्तं यथा । सुमन्तुः । यश्च तैर्यौनमौखश्रौवाणां सम्बन्धानामन्यतमेन सह सम्पर्क्कमियात् तस्या- प्येतदेव प्रायश्चित्तं विदध्यात् । इयात् कुर्य्यात् । एतदेवेति द्वादशवार्षिकमित्यर्थः । अत्र याज- नादीनामन्यतमेन संवत्सरेण पततीत्यवगम्यते । इति शूलपाणिकृतप्रायश्चित्तविवेकः ॥ मुख- सम्बन्धिनि, त्रि ॥