वाचस्पत्यम्
मौहूर्त्त || पु० मुहूर्त्तं तत्प्रतिपादकं शास्त्रं वेत्त्यधीते वाऽण् । ज्योतिःशास्त्रज्ञे । ठक् । मौहूर्त्तिक तत्रैव अमरः ।
शब्दकल्पद्रुमः
मौहूर्त्तः || पुं, (मूहूर्त्तं अधीते वेद वा । मुहूर्त्त + “तदधीते तद्वेद ।” ४ । २ । ५० । इत्यण् ।)
ज्योतिर्व्वेत्ता । इत्यमरः । २ । ८ । १४ ॥ (यथा, महाभारते । १२ । १२१ । ४६ । “भिक्षुकाः प्राड्विवाकाश्च मौहूर्त्ता दैव- चिन्तकाः ॥”)