वाचस्पत्यम्
म्रदिमन् || पु० मृदोर्भावः मृदु + इमनिच् डित् ऋतोरः । मृदुत्वे ।
शब्दकल्पद्रुमः
म्रदिमा || [न्] पुं, (मृदोर्भावः । मृदु + “पृथ्वा- दिभ्य इमनिज्वा ।” ५ । १ । १२२ । इति इम- णिच् । “र ऋतो हलादेर्लघोः ।” ६ । ४ । १६१ । इति ऋकारस्य रादेशः । “टेः ।” ६ । ४ । १५५ । इति टेर्लोपः ।)
मृदुता । यथा, राजतरङ्गि- ण्याम् । ८ । ५६६ । “म्रदिम्ना पापिनस्तस्य नाज्ञायि क्रूरता जनैः । मधुरिम्नी विषस्येव शक्तिः प्राणापहारिणी ॥”)