वाचस्पत्यम्
म्लान || त्रि० म्लै कान्तिक्षये—क्त तस्य नः । १ मलिने हेमच० २ म्लानियुक्ते च ।
शब्दकल्पद्रुमः
म्लानं || त्रि (म्ल हर्षक्षये + क्तः । “संयोगादेरातो- र्यण्वतः ।” ८ । २ । ४३ । इति निष्ठातस्य नः ।)
मलिनम् । यथा, —
“मलिनं कच्चरं म्लानं कश्मलञ्च मलीमसम् ॥” इति हेमचन्द्रः ॥ (यथा, मार्कण्डेये । ६२ । १६ । “स चिन्तयामास तदा किं न्वेषा गजगामिनी । निश्वासपवनम्लाना गिरावत्र वरूथिनी ॥”)
दुर्बलम् । (यथा, —
“अन्तेषु शूणं परिहीनमध्यं म्लानन्तथान्तेषु च मध्यशूणम् ॥” इति माधवकृतरुग्विनिश्चयस्य पाण्डुरोगव्या- ख्याने विजयेनोक्तम् ॥ (म्लै + भावे क्तः । ग्लानिः । यथा, मार्कण्डेये । ३५ । २४ । “रथ्यावसषणस्नानक्षुत्पानम्लानकर्म्मसु । आचामेच्च यथान्यायं वासो विपरिधाय च ॥”)