संस्कृत-शब्दकोशः

म्लेच्छमण्डल म्लेच्छाश

म्लेच्छमुख

वाचस्पत्यम्

म्लेच्छमुख ||‍ न० म्लेच्छानां मुखमिव रक्तत्वात् । ताम्रे अमरः । म्लेच्छास्यमप्यत्र हारा० ।


शब्दकल्पद्रुमः

म्लेच्छमुखं || क्ली (म्लेच्छे म्लेच्छदेशे मुखमुत्पत्ति- रस्य । इत्यमरटीकायां रघुनाथः ।)
ताम्रम् । इत्यमरः । २ । ९ । ९७ ॥ (तथास्य पर्य्यायः । “ताम्रमौदुम्बरं शुल्वमुदुम्बरमपि स्मृतम् । रविप्रियं म्लेच्छमुखं सूर्य्यपर्य्यायनामकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “ताम्रमौडुम्बरं शूल्वं विद्यात् म्लेच्छमुख- न्तथा ॥” इति गारुडे २०८ अध्याये ॥)



Correction: