संस्कृत-शब्दकोशः

यक्षतरु यक्षरस

यक्षधूप

वाचस्पत्यम्

यक्षधूप ||‍ पु० यक्षे पूजने योग्यो धूपः । (धुना) सर्ज्जरसे अमरः


शब्दकल्पद्रुमः

यक्षधूपः || पुं, (यक्षप्रियो धूपः ।)
धूपसामान्यम् । धूनकधूपः । इति केचित् । धुना इति ख्यात इति केचित् । इति भरतः ॥ तत्पर्य्यायः । सर्ज- रसः २ अरालः ३ सर्व्वरसः ४ बहुरूपः ५ । इत्यमरः । २ । ६ । १२७ ॥ रालः ६ धूनकः ७ वह्निवल्लभः ८ । इति रभसः ॥ सालसारः ९ सालजः १० सालनिर्यासः ११ सर्ज्यः १२ । इति रत्नमाला ॥ (अस्य पर्य्यायान्तरं यथा, —
“रालस्तु शालनिर्यासस्तथा सर्ज्जरसः स्मृतः । देवधूपो यक्षधूपस्तथा सर्व्वरसश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ एतेन माधवपूजननिषेधो देवीपूजा चोक्ता यथा कालिकापुराणे ६८ अध्याये । “न यक्षधूपं वितरेत् माधवाय कदाचन ।” “यक्षधूपेन वा देवीं महामायां प्रपूजयेत् ॥”)
सरलवृक्षरसः । टारपिन तेल इति भाषा । तत्पर्य्यायः । पायसः २ श्रीवासः ३ सरलद्रवः ४ । इति हेमचन्द्रः । ३ । ३११ ॥



Correction: