संस्कृत-शब्दकोशः

यक्षराज यक्षराट्पुरी

यक्षराज्

शब्दकल्पद्रुमः

यक्षराट् || [ज्] पुं, (यक्षेषु राजते इति । राज् + “सत्सूद्विषद्रुहेति ।” ३ । २ । ६१ । इति क्विप् ।)
कुबेरः । (यथा, भागवते । ८ । १८ । १७ । “तस्मा इत्युपनीताय यक्षराट् पात्रिकाम- दात् ॥” यक्षराजमात्रम् । मणिभद्रः । यथा, महा- भारते । ३ । ६४ । १२७ । “तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥” * ॥
यक्षा इव मल्ला राजन्तेऽत्र । राज् + क्विप् ।)
रङ्गमण्डपः । इति मेदिनी । जे, ३५ ॥



Correction: