वाचस्पत्यम्
यज || देवपूजने, दाने, सङ्गकृतौ च भ्वा० उभ० यजादि० अनिट् । यजति ते अयाक्षीत् अयष्ट इयाज ईजतुः ।
शब्दकल्पद्रुमः
यज || ऐ ञ औ देवार्च्चादानसङ्गकृतौ । इति कवि- कल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-अनिट् ।)
सङ्गस्य कृतिः सङ्गकृतिः । ऐ, इज्यात् । ञ, यजति यजते विष्णुं सुधीः पूजयतीत्यर्थः । पशुना रुद्रं यजते पशुं रुद्राय ददातीत्यर्थः । यजति सन्तं सन् सता सह सङ्गं करोतीत्यर्थः । औ, यष्टा । इति दुर्गादासः ॥