शब्दकल्पद्रुमः
यजतः || पुं, (यजतीति । यज् + “भृमृदृशियजि- पर्विपच्यमितमिनमिहर्य्यिभ्योऽतच् ।” उणा० ३ । ११० । इति अतच् ।)
ऋत्विक् । इति सिद्धान्त- कौमुदी ॥ (ऋषिविशेषः । स तु ऋग्वेदस्य ५ म० ६७ । ६८ । सूक्तयोः ऋषिः ॥ त्रि, यष्टव्यः । यथा, ऋग्वेदे । १ । १८१ । ३ । “अहंपूर्ब्बो यजतो धिष्ण्या यः ॥” “यजतो यष्टव्यः ।” इति तद्भाष्ये सायणः ॥ तथा च तत्रैव । २ । ५ । ८ । “यथा विद्बाँ अरं करद्विश्वेभ्यो यजतेभ्यः ।” “यजतेभ्यः सर्व्वेभ्यो यजनीयेभ्यो देवेभ्यः ।” इति तद्भाष्ये सायणः ॥)