वाचस्पत्यम्
यजत्र || न० यज—अत्र । १ अग्निहोत्रे उणादि० २ तद्वति त्रि० ।
शब्दकल्पद्रुमः
यजत्रः || पुं, (यजतीति । यज् + “अमिनक्षियजि- वधिपतिभ्योऽत्रन् ।” उणा० ३ । १०५ । इति अत्रन् ।)
अग्निहोत्री । इत्युणादिकोषः ॥ (यजनशीले, त्रि । यथा, ऋग्वेदे । ७ । ५२ । १९ । “पिता च तन्नो महान् यजत्रो विश्वेदेवाः समनसो जुषन्त ॥” “यजत्रः यजनशीलः ।” इति तद्भाष्ये सायणः ॥)