संस्कृत-शब्दकोशः

यजत्र यजन्त

यजन

वाचस्पत्यम्

यजन ||‍ न० यज—ल्युट् होत्रादिना पशुक्षीराज्यादिभिः मन्त्र- पूर्वकं वह्णौ प्रक्षेपरूपे यागे । यजनञ्च श्रा० वि० देवलोक्तं यथा “पशुक्षीराज्यपुरो- डाशसोमौषधिचरुप्रभृतिर्हविर्भिः खदिरपलाशाश्वत्थ- न्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवोदूखल- मूषलकुठारखनित्रयूपदारुदर्भचर्मग्रावपवित्रभाजनादिभि- र्द्रव्योपकरणैरुद्गातृहोत्रध्वर्युब्रह्मादिभिः ऋत्विग्भिः काम्यनैमित्तिकानां पक्षादिपूर्वकाणां यथोक्तदक्षिणानां समापनं यजनम्” । ल्यु । उत्तरपदस्थः समभिव्या- हृतदेवादेर्यष्टरि त्रि० आधारे ल्युट् । ३ यागाधिकरणे न० । यथा देवयजनम् ।


शब्दकल्पद्रुमः

यजनं || क्ली (इज्यते इति । यज् + ल्युट् ।)
यागः । (यथा, महाभारते । ७ । ५३ । ३७ । “यस्य सेन्द्रामरगणा बृहस्पतिपुरोगमाः । देवा विश्वसृजः सर्व्वे यजनान्ते समासते ॥”)
तत्तु ब्राह्मणस्य षट्कर्म्मान्तर्गतकर्म्मविशेषः । यथा, मानवे १ अध्याये । “अध्यापनं अध्ययनं यजनं याजनं यथा । दानं प्रतिग्रहश्चैव ब्राह्मणानामकल्पयत् ॥” अस्य लक्षणं यथा । पशुक्षीराज्यपुरोडास- सोमौषधिचरुप्रभृतिभिहविर्भिः खदिरपलाशा- श्वत्थन्यग्रोधोडुम्बरप्रभृतिभिः समिद्भिः स्रुक्स्रुवो- दूखलमुषलकुठारखनित्रयूपदारुदर्भचर्म्मग्राव- पवित्रभाजनादिभिर्द्रव्योपकरणैरुद्गातृहोत्रध्वर्य्यु- ब्रह्मादिभिरृत्विग्भिः काम्यनैमित्तिकानां पक्षादिपूर्ब्बकाणां यथोक्तदक्षिणानां समापनं यजनम् । इति श्राद्धविवेकधृतदेवलवचनम् ॥ (इज्यतेऽत्रेति । यज् + अधिकरणे ल्युट् । यज्ञ- स्थानम् । यथा, श्रीमद्भागवते । ४ । ४ । ६ । “नृद्दार्व्वयःकाञ्चनदर्भचर्म्मभि- र्निसृष्टभाण्डं यजनं समाविशत् ॥” “यजनं यज्ञस्थानम् ।” इति तट्टीकायां श्रीधर- स्वामी ॥)



Correction: