संस्कृत-शब्दकोशः

यजुस् यज्ञकृत्

यज्ञ

वाचस्पत्यम्

यज्ञ ||‍ पु० यज—भावे न । यागे अमरः । स त्रिविधः “अफला- काङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्त्विकः १ । अभिसन्धाय तु फलं दम्भार्ष- मपि चैव यत् । इज्यते भरतश्रेष्ठ! तं यज्ञं विद्धि राजसम् २ । विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं ३ परिचक्षते” गीता १७ अ० । स च नानाविधः । “द्रव्ययज्ञास्तपोयज्ञा योगयज्ञा- स्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः” गीता ४ अ० । पञ्चगृहस्थकर्त्तव्या यज्ञा यथा “अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम्” गारुडे ११५ अ० । २ विष्णौ च


शब्दकल्पद्रुमः

यज्ञः || पुं, इज्यते हविर्दीयतेऽत्र । (इज्यन्ते देवता अत्र इति वा । यज् + “यजयाचयतविच्छप्रच्छ- रक्षो नङ् ।” ३ । ३ । ९० । इति नङ् ।)
यागः । तत्पर्य्यायः । सवः २ अध्वरः ३ यागः ४ सप्त- तन्तुः ५ मखः ६ क्रतुः ७ । इत्यमरः । २ । ७ । १३ ॥ इष्टिः ८ इष्टम् ९ वितानम् १० मन्युः ११ आहवः १२ सवनम् १३ हवः १४ अभिषवः १५ होमः १६ हवनम् १७ महः १८ । इति शब्दरत्ना- वली ॥ स त्रिविधः । सात्त्विको राजसिकस्ताम- सिकश्च । सात्विकयज्ञो यथा, —
“अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते । यष्टव्यमेवेति मनः समाधाय स सात्विकः ॥” राजसिकयज्ञो यथा, —
“अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् । इज्यते भरतश्रेष्ठ ! तं यज्ञं विद्धि राजसम् ॥” तामसिकयज्ञो यथा, —
“विधिहीनमसृष्ठान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥” इति श्रीभगवद्गीतायाम् १७ अध्यायः ॥ * ॥
स च नानाविधः । यथा, —
“द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे । स्वाध्यायज्ञानयज्ञाश्च यतयः शंसितव्रताः ॥” इति श्रीभगवद्गीतायाम् ४ अध्यायः ॥ * ॥
पञ्च यज्ञा यथा, —
“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥” इति गारुडे ११५ अध्यायः ॥ * ॥
(तथाच मनुः । ४ । २१ — २२ । “ऋषियज्ञं देवयज्ञं भूतयज्ञञ्च सर्व्वदा । नृयज्ञं पितृयज्ञञ्च यथाशक्ति न हापयेत् ॥ एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः । अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥” अपरपञ्चयज्ञा उक्ता यथा, शिवपुराणे वायु- संहितायामुत्तरभागे । १८ । ८९ — १०६ । “कर्म्मयज्ञस्तपोयज्ञो जपयज्ञस्तदुत्तरः । ध्यानयज्ञो ज्ञानयज्ञः पञ्च यज्ञाः प्रकीर्त्तिताः ॥ कर्म्मयज्ञरताः केचित्तपोयज्ञरताः परे । जपयज्ञरताश्चान्ये ध्यानयज्ञरतास्तथा ॥ ज्ञानयज्ञरताश्चान्ये विशिष्टाश्चोत्तरोत्तरम् । कर्म्मयज्ञो द्बिधा प्रोक्तः कामाकामविभेदतः ॥ कामान् कामी ततो भुक्त्वा कामासक्तः पुनर्भवेत् । अकामो रुद्रभवने भोगान् भुक्त्वा ततश्चुतः ॥ तपोयज्ञरतो भूत्वा जायते नात्र संशयः । तपस्वी च पुनस्तस्मिन् भोगान् भुक्त्वा ततश्चुतः ॥ जपध्यानरतो भूत्वा जायते भुवि मानवः । जपध्यानरतो मर्त्यस्तद्वैशिष्टवशादिह ॥ ज्ञानं लब्ध्वा चिरादेव शिवसायुज्यमाप्नुयात् । तस्मान्मुक्तौ शिवाज्ञप्तः कर्म्मयज्ञोऽपि देहिनाम् ॥ अकामः कामसंयुक्तो बन्धायैव भविष्यति । तस्मात् पञ्चसु यज्ञेषु ध्यानज्ञानपरो भवेत् ॥ ध्यानं ज्ञानञ्च यस्यास्ति तीर्णस्तेन भवार्णवः । हिंसादिदोषनिर्मुक्तो विशुद्धश्चित्तसाधनः ॥ ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः । बहिः कर्म्मकरा यद्बन्नातीवफलभागिनः ॥ दृष्टा नरेन्द्रभवने तद्वदत्रापि कर्म्मिणः । ध्यानिनां हि वपुः सूक्ष्मं भवेत् प्रत्यक्षमैश्वरम् ॥ तथेह कर्म्मिणां स्थूलं मृत्काष्ठाद्यैः प्रकल्पितम् । ध्यानयज्ञरतास्तस्माद्देवान् पाषाणमृन्मयान् ॥ नात्यन्तं प्रतिपद्यन्ते शिवयाथात्म्यवेदनात् । आत्मस्थं यः शिवन्त्यक्त्वा बहिरभ्यर्च्चयेन्नरः ॥ हस्तस्थं फलमुत्सृज्य लिहेत् कूर्परमात्मनः । ज्ञानात् ध्यानं भवेत् ध्यानाज्ज्ञानं भूयः प्रवर्त्तते ॥ तदुभाभ्यां भवेन्मक्तिस्तस्मात् ध्यानरतो भवेत् । द्वादशान्ते तथा मूर्द्ध्नि ललाटे भ्रूयुगान्तरे ॥ नासाग्रे वा तथास्ये वा कन्धरे हृदये तथा । नाभौ वा शाश्वतस्थाने श्रद्धाविद्धेन चेतसा ॥ बहिर्य्यागोपचारेण देवं देवीञ्च पूजयेत् । अथवा पूजयेन्नित्यं लिङ्गे वा कृतकेपि वा ॥ वह्नौ वा स्थण्डिले वाथ भक्त्या वित्तानुसारतः ॥ अथवान्तर्ब्बहिश्चैव पूजयेत् परमेश्वरम् । अन्तर्य्यागरतः पूजां बहिः कुर्व्वीत वा न वा ॥”)
अस्योत्पत्तिर्यथा, — ऋषय ऊचुः । “कथं यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् । त्रेतात्वमगमन् पुत्त्रा वराहस्य कथं त्रयः । तन्नोऽद्य श्रोष्यमाणानां कथयस्व महामते ! ॥ श्रीमार्कण्डेय उवाच । शृणुध्वं द्विजशार्दूला यत् पृष्टोऽहं महाद्भुतम् । यज्ञेषु देवास्तिष्ठन्ति यज्ञे सर्व्वं प्रतिष्ठितम् ॥ यज्ञेन ध्रियते पृथ्वी यज्ञस्तारयति प्रजाः । अन्नेन भूता जीवन्ति पर्जन्यादन्नसम्भवः ॥ पर्जन्यो जायते यज्ञात् सर्व्वं यज्ञमयं ततः । स यज्ञोऽभूद्बराहस्य कायात् शम्भुविदारितात् ॥ यथाहं कथये तद्वः शृण्वन्त्ववहिता द्विजाः । विदारिते वराहस्य काये भर्गेण तत्क्षणात् ॥ ब्रह्मविष्णुशिवा देवाः सर्व्वैश्च प्रमथः सह । निन्युर्जलात् समुद्धृत्य तच्छरीरं नभः प्रति ॥ तद्बिभेजुः शरीरन्ते विष्णोश्चक्रेण खण्डशः । तस्याङ्गसन्धयो यज्ञा जातास्ते वै पृथक् पृथक् ॥ यस्माद्यस्माच्च ये यज्ञास्तत् शृण्वन्तु महर्षयः । भ्रूनासासन्धिना जातो ज्योतिष्टोमो महाध्वरः ॥ हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत । चक्षुर्भ्रुवोः सन्धिना तु व्रात्यष्टोमो व्यजायत ॥ राजः पौनर्भवष्टोमस्तस्य पोत्रोष्ठसन्धिना । वृद्धष्टोमबृहष्टोमौ जिह्वामूलाद्व्यजायत ॥ अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् ॥ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ स्नानं तर्पणपर्य्यन्तं नित्ययज्ञाश्च सर्व्वशः । कण्ठसन्धेः समुत्पन्ना जिह्वातो विधयस्तथा ॥ ॥ वाजिमेधो महामेधो नरमेधस्तथैव च । प्राणिहिंसाकरा येऽन्ये ते जाताः पादसन्धितः ॥ राजसूयोऽथ कारीषो वाजपेयस्तथैव च ॥ पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च ॥ प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा । हृत्सन्धितः समुत्पन्नाः सावित्रीयज्ञ एव च ॥ सर्व्वेषां साधका यज्ञाः प्रायश्चित्तकराश्च ये । ते मेढ्रसन्धितो जाता यज्ञास्तस्य महात्मनः ॥ रक्षःसत्रं सर्पसत्रं सर्व्वञ्चैवाभिचारिकम् । गोमेधो वृक्षजापश्च खुरेभ्यो ह्यभवन्निमे ॥ मायेष्टिः परमेष्टिश्च गीष्पतिर्भोगसम्भवः । लाङ्गूलसन्धौ संजाता अग्निष्टोमस्तथैव च ॥ नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकी- र्त्तिताः । लाङ्गूलसन्धौ ते जातास्तथा द्बादशवार्षिकम् ॥ तीर्थप्रयोगसामौजयजुःसङ्कर्षणस्तथा । आर्कमाथर्व्वणञ्चैव नाभिसन्धेः समुद्गताः ॥ ऋचोत्कर्षः क्षेत्रयज्ञः पञ्चमार्गोऽतियोजनः । लिङ्गसंस्थानहैरम्बयज्ञा जाताश्च जानुनि ॥ एवमष्टाधिकं जातं सहस्रं द्बिजसत्तमाः ॥ यज्ञानां सततं लोका यैर्भाव्यन्तेऽधुनापि च । स्रुगस्य पोत्रात् संजाता नासिकायाः स्रुवो ऽभवत् ॥ अन्ये स्रुक्स्रुवभेदा ये ते जाताः पोत्रनासयोः । ग्रीवाभागेन तस्याभूत् प्राग्वंशो मुनिसत्तमाः ॥ इष्टापूर्त्तं यजुर्धर्म्मो जाताः श्रवणरन्ध्रतः । दंष्ट्राभ्यो ह्यभवन् यूपाः कुशा रोमाणि चाभ- वन् ॥ उद्गाता च तथाध्वर्य्युर्होता समिध एव च । अग्रदक्षिणवामाङ्गपश्चात्पादेषु सङ्गताः ॥ पुरोडाशाः सचरवो जाता मस्तिंष्कसञ्चयात् । कर्षुर्नेत्रयुगाज्जाता यज्ञकेतुस्तथा खुरात् ॥ मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजायत । रेतोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः ॥ यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च । तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः ॥ एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च । तानि यज्ञवराहस्य शरीरादेव चाभवन् ॥ एवं यज्ञवराहस्य शरीरं यज्ञतामगात् । यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ॥ एवं विधाय यज्ञन्तु ब्रह्मविष्णुमहेश्वराः । सुवृत्तं कनकं घोरमासेदुर्यत्नतत्पराः ॥ ततस्तेषां शरीराणि पिण्डीकृत्य पृथक् पृथक् । त्रिदेवास्त्रिशरीराणि व्यधमन्मुखवायुभिः ॥ सुवृत्तस्य शरीरन्तु व्यधमन्मुखवायुना । स्वयमेव जगत्म्रष्टा दक्षिणाग्निस्ततोऽभवत् ॥ कनकस्य शरीरन्तु ध्मापयामास केशवः । ततोऽभूद्गार्हपत्याग्निः पञ्चवैतानभोजनः ॥ घोरस्य तु वपुः शम्भुर्ध्मापयामास वै स्वयम् । तत आहवनीयोऽग्निस्तत्क्षणात् समजायत ॥ एतैस्त्रिभिर्जगत् व्याप्तं त्रिमूलं सकलं जगत् । एतत् यत्र त्रयं नित्यं तिष्ठति द्बिजसत्तमाः । समस्ता देवतास्तत्र वसन्तेऽनुचरैः सह ॥ एतद्भद्रप्रदं नित्यमेतदेव त्रयात्मकम् । एतत् त्रयीविधिस्नानमेतत् पुण्यकरं परम् ॥ यस्मिन् जनपदे चैते हूयन्ते अग्नयस्त्रयः । तस्मिन् जनपदे नित्यं चतुर्व्वर्गो विवर्द्धते ॥ एतद्वः कथितं सर्व्वं यत् पृष्टं द्बिजसत्तमाः । यथा यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् । तथा च तस्य पुत्त्राणां देहास्त्रेतात्वमागमन् ॥” इति कालिकापुराणे ३० अध्यायः ॥ * ॥
ब्रह्मण आदियज्ञा यथा, — पुलस्त्य उवाच । “पूर्ब्बमेव मया ख्यातं यदा स्वायम्भुवो मनुः । जातः परमधर्म्मात्मा शतरूपापतिः स्वयम् ॥ स्रष्टा प्रजापतिः पूर्ब्बं सृष्टिकर्म्मण्ययोजयत् । वत्स ! त्वमेव संकल्प्य स्वल्पां सृष्टिं कुरु ह्यथ ॥ स्वयं तु पुष्करं गत्वा कृत्वा यज्ञन्तु विस्तरम् । ब्रह्मोद्गाता होताध्वर्य्युश्चत्वारो यज्ञवाहकाः । एकैकस्य त्रयश्चान्ये परिवाराः स्वयं कृताः ॥ एते वै षोडश प्रोक्ता ऋत्विजो वेदचिन्तकाः । शतानि त्रीणि षड्भिश्च यज्ञाः सृष्टाः स्वय- म्भुवा ॥ भीष्म उवाच । यज्ञस्य ब्रह्मणो विप्र ! समाप्तिं वद साम्प्रतम् ॥ पुलस्त्य उवाच । मन्वन्तरे व्यतीते तु यज्ञस्यावभृथोऽभवत् । दक्षिणा ब्रह्मणा दत्ता प्राची होतुस्तु दक्षिणा ॥ अध्वर्य्यवे प्रतीची तु उद्गातुश्चोत्तरा तथा । त्रैलोक्यं सकलं ब्रह्मा ददौ तेषान्तु दक्षि- णाम् ॥ धेनूनाञ्च शतं साष्टं दातव्यं यज्ञसिद्धये । अध्वर्य्यूणां सहस्राणि स्वेच्छया दानमिष्यते ॥” इति पाद्मे सृष्टिखण्डे ३१ अध्यायः ॥ * ॥
ब्राह्मणादीनां स्वधर्म्मयज्ञा यथा, —
“आरम्भयज्ञाः क्षत्त्राः स्युर्हविर्यज्ञा विशः स्मृताः । परिचारयज्ञाः शूद्रास्तु जपयज्ञास्तु ब्राह्मणाः ॥” इति मात्स्ये ११८ अध्यायः ॥ * ॥
हिंसायज्ञस्य अधर्म्मजनकत्वं यथा, —
“तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्त्तयत् प्रभुः । दैवतैः सह संहृत्य सर्व्वसाधनसंभृतम् ॥ तस्याश्वमेधे वितते समाजग्मुर्महर्षयः । महर्षयश्च तान् दृष्ट्वा दीनान् पशुगणांस्तदा ॥ विश्वं भुजन्ते त्वपृच्छन् कोऽयं यज्ञविधिस्तब । अधर्म्मो बलवानेष हिंसाधर्म्मेप्सया तव ॥ न नः पशुबधस्त्विष्टस्तव यज्ञेश्वरोत्तम ! । अधर्म्मो धर्म्मघाताय प्रारब्धः पशुभिस्त्वया ॥ नायं धर्म्मो ह्यधर्म्मोऽयं न हिंसा धर्म्म उच्यते । आगमेन भवान् धर्म्मं प्रकरोतु यदीच्छति ॥ विधिदृष्टेन यज्ञेन धर्म्मेणाव्ययसेतुना ॥ एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः । उक्तो न प्रतिजग्राह मानमोहसमन्वितः ॥ तेषां विवादः सुमहान् जज्ञे इन्द्रमहर्षि- णाम् । जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥ ते तु खिन्ना विवादेन तथ्यमुक्त्वा महर्षयः । सन्ध्याय वाक्यमिन्द्रेण पप्रच्छुः खचरं वसुम् ॥ ऋषय ऊचुः । महाप्राज्ञ कथं दृष्टस्तव यज्ञविधिर्नृप ! । उत्तानपादे ! प्रब्रूहि संशयं नो नुद प्रभो ! ॥ सूत उवाच । श्रुत्वा वाक्यं वसुस्तेषामविचार्य्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥ यष्टव्यं पशुभिर्मेध्यैरथ मूलफलैरपि । हिंसा स्वभावो यज्ञस्य इति मे दर्शनागमः एवं कृतोत्तरास्ते तु युक्त्वात्मानं ततो धिया । अवश्यं भाविनं दृष्ट्वा तमधो ह्यशपंस्तदा ॥ इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् । धर्म्माणां संशयच्छेत्ता राजा वसुरधो गतः ॥ तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः । तस्मान्न हिंसा यज्ञस्य यदुक्तमृषिभिः पुरा ॥” इति मात्स्ये ११९ अध्यायः ॥ तद्वैदिकपर्य्यायः । वेनः २ अध्वरः ३ मेधः ४ विदथः ५ नार्य्यः ६ सवनम् ७ होत्रा ८ इष्टिः ९ देवताता १० मखः ११ विष्णुः १२ इन्दुः १३ प्रजापतिः १४ धर्म्मः १५ । इति पञ्चदश यज्ञ- नामानि । इति वेदनिघण्टौ । ३ । १७ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥”)



Correction: