वाचस्पत्यम्
यज्ञपशु || पु० इज्यते हविर्दीयतेऽत्र यागार्थकयजेर्भावे आघारे वा न यज्ञः यज्ञार्थः पशुः । १ अश्वे २ छागादौ च ।
शब्दकल्पद्रुमः
यज्ञपशुः || पुं, (यज्ञार्थः पशुः ।)
घोटकः । इति शब्दमाला ॥ (यथा, श्रीमद्भागवते । ४ । १९ । ११ । “चरमेणाश्वमेधेन यजमाने यजुष्पतिम् । वैण्ये यज्ञपशुं स्पर्द्धन्नपोवाह तिरोहितः ॥”)
छागश्च ॥