वाचस्पत्यम्
यज्ञवराह || पु० यज्ञरूपो वराहः । आदिवराहे भगवदव- तारभेदे । क्रतुपुरुषशब्दे २२८४ पृ० दृश्यम् । वराहदे- हस्य शिवेन विदारणेन यज्ञभेदरूपत्वं सम्पादितं यथोक्तं कालिकापु० ३० अ० “विदारिते वराहस्य काये भर्गेण तत्क्षणात् । ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह । निन्युर्जलात् समुद्धृत्य तत् शरीरं नभः प्रति । तद्विभेजुः शरीरन्तु विष्णोश्चक्रेण खण्डशः । तस्याङ्ग सन्धितो यज्ञाजातास्ते वै पृथक् पृथक् । यस्माद् यस्माच्च ये यज्ञास्तत् शृण्वन्तु महर्षयः । भ्रूनासासन्धिना जातो ज्योतिष्टोमो महाध्वरः । हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत । चक्षुर्भ्रुवोः सन्धिना तु व्रात्य- स्तोमो व्यजायत । आयुः पौगर्भवस्तोमस्तस्य पोत्रोष्ठ सन्धिना । वृद्धस्तोम वृहत्स्तोमौ जिह्वामूलाद्व्यजायत । अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् । अध्यापनं ब्रह्मयज्ञः पिद्वयज्ञस्तु तर्पणम् । होमो दैवो वलिभौतो नृयज्ञोऽतिधिपजतम् । स्नानं तर्पणपर्व्यन्तं नित्य- यज्ञाश्च सांशः । कण्ठसन्धेः समुत्पन्ना, जिह्वातो विधयस्तथा यवाजिमेधो महामेधो नरमेधस्तथैव च । प्राणिहिंसाकरा येऽन्ये ते क्षाताः पादसन्धितः । राजसूयोऽथ कारीरी वाजपेयस्तथैवच । पृष्ठसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च । प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा । हृत्सन्धितः समुत्पन्ना सावित्री- यज्ञ एव च । सर्वेषां साधका यज्ञाः प्रायश्चित्तकराश्च ये । ते मेढृसन्धितो जाता यज्ञास्तस्य महात्मनः । रक्षःसत्रं सर्पसत्रं सर्वञ्चैवाभिचारिकम् । गोमेधो वृक्षजापश्च खुरेभ्यो ह्यभवन्निमे । मायेष्टिः परमेष्टिश्च गोष्पतिर्भोगसम्भवः । लाङ्गूलसन्धौ संजाता अग्निष्टोम स्तथैवच । नैमित्तिकाश्च ये यज्ञाः संक्रान्त्यादौ प्रकी- र्त्तिताः । लाङ्गूलसन्धौ ते जातास्तथा द्वादशवार्षिकम् । तीर्थप्रयोगसामौथः यजुः सङ्कर्षणस्तथा । आर्कमाथर्वण- श्चैव नाभिसन्धेः समुद्गताः । सत्रोत्कर्षः क्षेत्रयज्ञः पञ्चमार्गोऽतियोजनः । लिङ्गसंस्थानहैरम्बयज्ञा जाताश्च जानुनि । एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः! । यज्ञानां सततं लोकायैर्भाव्यन्तेऽधुनापि च । स्रुशस्य पोत्रात् संजाता नासिकायाः स्रुवोऽभवत् । अन्ये स्रुक्स्रुवमेदा ये ते जाताः पोत्रनासयोः । ग्रीवा- भागेन तस्याभूत प्राग्वंशो मुनिसत्तमाः! । इष्टा- पूर्त्तं यजुर्धर्मा जाताः श्रवणरन्ध्रतः । दंष्ट्राभ्योह्यभवन् यूपाः कुशा रोमाणि चाभवन् । उद्गाता च तथा- ध्वर्य्युर्होता समिध एव च । अग्रदक्षिणवामाङ्ग पश्चात्पादेषु सङ्गताः । पुरोडाशाः सचरवो जाता मस्तिष्कसञ्चयात् । कर्षूर्नेत्रयुगाज्जाता यज्ञकेतु- स्तथा खुरात् । मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजा- यत । रेतोधारास्तथैवाज्यं स्वरान्मन्त्राः समुद्गताः । यज्ञालयः पृष्ठभागात् हृत्पद्मात् यज्ञ एव च । तदात्मा यज्ञपुरुषो मुञ्जाः कक्षात् समुद्गताः । एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च । तानि यज्ञवराहस्य शरीरादेव चाभवन् । एवं यज्ञवराहस्य शरीरं यज्ञता- मगात् । यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ।”