वाचस्पत्यम्
यज्ञवृक्ष || पु० यज्ञार्थः वृक्षः । वटवृक्षे राजनि० ।
शब्दकल्पद्रुमः
यज्ञवृक्षः || पुं, (यज्ञस्य वृक्षः ।)
वटीवृक्षः । इति राजनिर्घण्टः ॥ (विकङ्कतः । तत्पर्य्यायो यथा, “विकङ्कतः स्रुवावृक्षो ग्रन्थिला स्वादुकण्टकः । स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)