वाचस्पत्यम्
यज्ञाङ्ग || पु० यज्ञस्याङ्गं साधनत्वेनास्त्यस्य अच् । १ यज्ञोडुम्बरे अमरः । २ खदिरे राजनि० । ३ ब्रह्मयष्टिकायाञ्च शब्दच० ते हि समिन्पत्त्रादिना यज्ञं सम्पादयन्ति । ४ सोम- वल्ल्यां स्त्री राजनि० टाप् । ६ त० । ५ यागाङ्गमात्रे न० ।
शब्दकल्पद्रुमः
यज्ञाङ्गः || पुं, (यज्ञं अङ्गति प्राप्नोतीति । अङ्ग + अण् ।)
उडुम्बरः । इत्यमरः । २ । ४ । २२ ॥ (अस्य पर्य्यायो यथा, —
“यज्ञाङ्गो ब्रह्मवृक्षश्च हेमदुग्धोऽप्युडुम्बरः ॥” इति वैद्यकरत्नमालायाम् ॥ “उडुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
खदिरवृक्षः । इति राजनिर्घण्टः ॥ ब्राह्मण- यष्टिका । इति शब्दचन्द्रिका ॥ (यज्ञ एव अङ्गं यस्य । विष्णुः । यथा, महाभारते । १३ । १४९ । ११७ । “भूर्भुवःस्वस्तरुस्तारः स्वपिता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥” * ॥
यज्ञस्याङ्गमिति ।)
यागावयवे यज्ञसाधने च क्ली ॥ (यथा, कुमारसम्भवे । १ । १७ । “यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमञ्च ॥”)