संस्कृत-शब्दकोशः

यज्ञारि यज्ञिय

यज्ञिक

वाचस्पत्यम्

यज्ञिक ||‍ पु० यज्ञः यज्ञाङ्गं साध्यत्वेनास्त्यस्य ठन् । पलाशे जटा० । तत्समिदादिभिर्हि यज्ञोनिष्पाद्यते ।


शब्दकल्पद्रुमः

यज्ञिकः || पुं, पलाशवृक्षः । इति जटाधरः ॥ (अनुकम्पितो यज्ञदत्तः । “बह्वचो मनुष्य- नाम्नष्ठच् वा ।” ५ । ३ । ३८ । इति ठच् । “ठाजादावूर्द्ध्वं द्वितीयादचः ।” ५ । ३ । ८३ । इति प्रकृतेर्द्वितीयादच ऊर्द्ध्वस्य लोपः । यज्ञदत्तकः । इति काशिका ॥)



Correction: