वाचस्पत्यम्
यज्ञिय || त्रि० यज्ञाय हितः घ । १ यज्ञकर्मयोग्ये अमरः । २ द्वापरयुगे पु० त्रिका० ।
शब्दकल्पद्रुमः
यज्ञियं || त्रि (यज्ञमर्हतीति । यज्ञ + “यज्ञर्त्विग्भ्यां घखञौ ।” ५ । १ । ७१ । इति घः ।)
यज्ञकर्म्मा- र्हम् । इत्यमरः । २ । ७ । २७ ॥ (यथा, हरिवंशे । २९ । १६ । “कृतो यज्ञविभागो हि यज्ञियैर्हि सुरैः पुरा ॥”)
यज्ञाय हितम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, मनुः । २ । २३ । “कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्ततः परः ॥”)
शब्दकल्पद्रुमः
यज्ञियः || पुं, (यज्ञाय हितः । यज्ञ + घः ।)
द्वापर- युगम् । इति त्रिकाण्डशेषः ॥ (खदिरवृक्षः । तत्पर्य्यायो यथा, —
“खदिरो रक्तसारश्च गायत्री दन्तधावनः । कण्टकी बालपत्रश्च बहुशल्यश्च यज्ञियः ॥” इति भावप्रकाशे पूर्ब्बखण्डे प्रथमे भागे ॥ पलाशः । तत्पर्य्यायो यथा, —
“पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षो सरिद्वरः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)