वाचस्पत्यम्
यज्ञीय || पु० यज्ञाय हितः तस्येद वा छ । १ यज्ञोडुम्बरे राजनि० । २ यागसम्बन्धिनि त्रि० ।
शब्दकल्पद्रुमः
यज्ञीयः || पुं, (यज्ञे भवः इति । यज्ञ + “गहादि- भ्यश्च ।” ४ । २ । १३८ । इति छः ।)
उडुम्बर- वृक्षः । इति राजनिर्घण्टः ॥ यागसम्बन्धिनि, त्रि ॥ (यथा, महाभारते । ३ । १२४ । ६ । “प्रशस्तेऽहनि यज्ञीये सर्व्वकामसमृद्धिमत् । कारयामास शर्यातिर्यज्ञायतनमुत्तमम् ॥”)