वाचस्पत्यम्
यज्ञेश्वर || पु० यज्ञस्य प्रवर्त्तयिता ईश्वरः । विष्णौ ।
शब्दकल्पद्रुमः
यज्ञेश्वरः || पुं, (यज्ञानामीश्वरः ।)
विष्णुः । यथा, “यज्ञेश्वरो हव्यसमस्तकव्य- भोक्ताव्ययात्मा हरिरीश्वरोऽत्र । तत्सन्निधानादपयान्तु सद्यो रक्षांस्यशेषाण्यसुराश्च सर्व्वे ॥” इति श्राद्धतत्वम् ॥